॥ तोटकाष्टकं ॥

Youtube

विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे ।

हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥

करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् ।

रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥ २॥

भवता जनता सुहिता भविता निजबोधविचारण चारुमते ।

कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥ ३॥

भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता ।

मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणम् ॥ ४॥

सुकृतेऽधिकृते बहुधा भवतो भविता समदर्शनलालसता ।

अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥ ५॥

जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः ।

अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥ ६॥

गुरुपुंगव पुंगवकेतन ते समतामयतां नहि कोऽपि सुधीः ।

शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥ ७॥

विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो ।

द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥ ८॥